Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 6, Part B

चार्वाक्दर्शनस्य सामान्यस्वरूपविवेचनम्

अरबिन्दनायकः

दृश्यते तत्त्वमनेन इति दर्शनम्।इदं दर्शनं विदुषां दिव्यचक्षुः । भारतीयदर्शनानि आस्तिक- नास्तिकत्वेन द्विधा विभक्तानि वेदस्वीकरणास्वीकरणभेदेन। सांख्यन्यायवेदान्तादीनि आस्तिकानि, बौद्ध- जैनचार्वागादीनि नास्तिकानि। मोक्षः यद्यपि समेषां काम्यः तथापि प्रदर्शितमार्गास्तु भिन्नाः। प्रदर्शितेषु- विविधमार्गेषु बृहस्पतिप्रणीतचार्वाक्दर्शननिर्दिष्टाः मार्गाः इदानीन्तनप्रपञ्चे जनैरत्यन्तं ग्रहणीयाः प्रथिताश्च मन्यन्ते।यतो हि लोकायतबार्हस्पत्यादिभिर्नामभिः श्रूयमाणमिदं दर्शनं भौतिकं भवति। चारु वाक् यस्य सः चार्वाक् । भूमिर्वाय्वनलानिलेभ्य एतेभ्यः भूतचतुष्टयेभ्यः देहस्य सृष्टिः देहैवात्मा । देहस्य प्रत्यक्षत्वात्।“यावज्जीवेद् सुखं जीवेद् ऋणं कृत्वा घृतं पिवेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः।।” इति अस्य नास्तिकशिरोमणिभूतस्य चार्वाक्दर्शनस्य ध्येयवाक्यम्। अङ्गनालिङ्गनजन्यसुखमेव पुमर्थता इति अस्य मतम्। “नास्तिकः वेदनिन्दकः” इति न्यायेन चार्वाक्“त्रयो वेदस्य कर्त्तारो धूर्त्त- भण्डनिशाचरा” इति उक्तिमाध्यमेन वेदं निन्दति । इदं भौतिकत्वात् सांसारिकसुखेन सहास्य सम्पर्कः।
Pages : 70-74 | 681 Views | 133 Downloads


International Journal of Sanskrit Research
How to cite this article:
अरबिन्दनायकः. चार्वाक्दर्शनस्य सामान्यस्वरूपविवेचनम्. Int J Sanskrit Res 2020;6(6):70-74.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.