Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part D

श्रीपुरुषोत्तमचरिते दार्शनिकपरिशीलनम् / संगीता राणी विश्वालः

संगीता राणी विश्वालः

देवभाषा संस्कृतभाषा सर्वासां भाषाणां जननीति समग्रविश्वे सुपरिचिता । अस्यां महनीया-भाषायां विविध-काव्य-कविता-नाटक-उपन्यासादयः रचयित्वा उत्कलस्य वरपुत्राः स्वप्रतिभायाः उत्कर्षतां प्रतिपादितवन्तः । तेषु सुयोग्य-संस्कृतविद्वान् गणेश्वर-रथमोहदयः स्वस्वसाधनाचवलेन संस्कृतवाङ्मयं समृद्धं कृतवान् तथा उत्कलभूमेरक्षयकीर्त्तिं समग्रविश्वे स्थापितवान् । न केवलं काव्यक्षेत्रे अपि तु वेद-वेदाङ्ग-व्याकरण-दर्शन-धर्मशास्त्रादिक्षेत्रेषु अपि अस्याः अम्लानधारा सौच्छलन्ती प्रवहति इति महतः आनन्दस्य विषयः । तस्य प्रकाशितेषु ग्रन्थेषु ‘पुरुषोत्तमचरितम्’ इति महाकाव्यं कवेः उच्चोकोटिकं कवित्वं प्रकाशयति । भारतीयधर्मस्य दर्शनस्य च प्राचीनतमं मूलस्वरूपं भवति ऋग्वेदः । अत्र सवित्रृ-मन्त्रः ‘तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि, धियो यो नः प्रचोदयात्’ इति प्रणवेन मिलित्त्वा स मन्त्रः गायत्रीमन्त्रः इति सर्वजनध्येयः । कविः स्वीये श्रीपुरुषोत्तम-महाकाव्यस्य प्रथम-सर्गस्य प्रथम-श्लोके एवं परंब्रह्मणः स्वरूपं वर्णयति । यथा -
"वरेण्यमन्तहृदयं पुनाति नं-
स्त्रयीमयं यत् त्रिगुणं गुणातिगम् ।
जगत्-प्रसूति-स्थिति-नाश-कारणं
चकास्ति तेजो विभु भूर्भुवः स्वरोम् ॥"
सर्वाणि दर्शनानि यथा ब्रह्मणः स्वरूपं, मायायाः स्वरूपं, धर्मानुवन्धित्वम्, कर्मवादः, सेवाधर्मः, विश्ववन्धुत्वभावः, एकात्मभावः, जीवनोपयोगिता, पुनर्जन्मविषयादि पुरुषोत्तमकाव्यस्य विभिन्नसर्गे कविः वाचस्पतिः अभिव्यनक्ति । काव्येऽस्मिन् तस्य शास्त्र-नैपुण्य-समेतं दार्शनिक-भावकत्वञ्च सहृदय-जनानां श्रद्धाभाजनं भवितुमर्हति । एतत् सुनिश्चितं यत् दर्शनं मानवजीवनं पावयति तथा समुन्नयति, सद्भावं प्रेरयति, जनेषु मैत्री-शान्ति-साम्यादि वार्ता प्रसारं कृत्वा समग्रविश्वे सार्वभौंमिकिं सार्वलौकिकिं च उन्नतिं निर्दिशति ।
Pages : 204-212 | 560 Views | 91 Downloads


International Journal of Sanskrit Research
How to cite this article:
संगीता राणी विश्वालः. श्रीपुरुषोत्तमचरिते दार्शनिकपरिशीलनम् / संगीता राणी विश्वालः. Int J Sanskrit Res 2021;7(5):204-212. DOI: 10.22271/23947519.2021.v7.i5d.1503

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.