International Journal of Sanskrit Research
2021, Vol. 7, Issue 6, Part D
ध्वनिपरिवर्त्तने काशिकावृत्तौ पठितोदाहरणानां भूमिका
Dr. Dharmendra Das
शास्त्रेष्वाद्यं व्याकरणम् । तत्र महर्षिणा पाणिनिना प्रणीतमिदं पाणिनीयं महाशास्त्रं भुवनविदितं सूत्रात्मकम् अष्टाध्यायीग्रन्थरत्नं राजते । पाणिनीयसूत्राणां व्याख्यानग्रन्थत्वेन प्रसिद्धा काशिकावृत्ति: । उदाहरणमण्डिता काशिकावृत्ति: । वैयाकरणयो: वामनजयादित्ययो: सम्मिलिता वृत्तिरियम् । सूत्रव्याख्यानावसरेऽत्र संगृहीतोदाहरणशब्दानां प्रासङ्गिकता साम्प्रतिकशोधजगति वर्त्तते एव । भाषावैज्ञानिकरूपेण काशिकावृत्तिकारयो: वामनजयादित्ययो: भूमिका शोधपत्रेऽस्मिन् चर्चिता वर्त्तते । आधुनिकभाषाविज्ञानदृष्ट्या काशिकावृत्तिगतोदाहरणानां तात्पर्याकलनं क्रियते यत्र काशिकावृत्तौ ध्वनिपरिवर्त्तननिष्ठोदाहरणानां भाषाशास्त्रीयविचार: प्रस्तूयते ।
How to cite this article:
Dr. Dharmendra Das. ध्वनिपरिवर्त्तने काशिकावृत्तौ पठितोदाहरणानां भूमिका. Int J Sanskrit Res 2021;7(6):241-246.