Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 1, Part C

न्यायसिद्धान्तमञ्जरीग्रन्थदिशा प्रमाणानुशीलम्

डॉ. रघुनाथ नेपाल

न्यायसिद्धान्तमञ्जरीग्रन्थदिशा प्रमाणानुशीलनरूपेऽस्मिन्नालेखे ग्रन्थकारोक्तदिशा प्रमाणस्वरूपमनुशीलितमस्ति। प्रमाणविषयकं चिन्तनमस्य ग्रन्थकारस्य विदुषो जानकीनाथस्य कीदृशमस्तीति नैतावत्केनाप्यनुसन्धितमस्ति। अतो ग्रन्थकारोक्तदिशा प्रमाणसामान्यं परिशील्य क्रमशः प्रत्यक्षानुमानोपमानशब्दाख्यानि प्रमाणानि परिशीलितानि। तत्र प्रत्यक्षप्रमाणनिरूपणप्रसङ्गे समागतानि प्रत्यक्षप्रमास्वरूप–करणकारणस्वरूप–निर्विकल्पकसविकल्पकप्रत्यक्षभेद–इन्द्रियभेदजन्यचाक्षुषादिप्रत्यक्षभेद–संयोगादिसन्निकर्षभेदस्वरूपादीनि सलक्षणं विश्लिष्यानुशील्य च, अनुमानपरिच्छेदेऽप्यनुमितिस्वरूपम्, परामर्शस्वरूपम्, व्याप्तिस्वरूपम्, अनुमानभेदञ्चोक्त्वा हेत्वाभासाः, प्रतिज्ञाद्यवयवाश्च विश्लिष्टाः, तदन्वनुशीलिताश्च। एवमेवोपमानस्वरूपविश्लेषणपूर्वकमनुशील्य तदनु शब्दप्रमाणविषयकमनुशीलनं विश्लेषणपूर्वकं गहनतया विहितमस्ति। ग्रन्थकारेण प्रतिपादितानां प्रमाणसम्बन्धिविविधविषयाणां सूक्ष्मेक्षिकयानुशीलनार्थं सयुक्तिकेन विश्लेषणविधिना निष्कर्षः स्थापितो वर्तते। मन्येऽहमनेनापूर्वलघ्वनुसन्धानकार्येण प्रमाणविषयकाध्ययने, न्यायसिद्धान्तमञ्जरीग्रन्थाध्ययने च रुचिमतां जिज्ञासूनां महानुपकारो भवेदिति।
Pages : 147-155 | 482 Views | 105 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. रघुनाथ नेपाल. न्यायसिद्धान्तमञ्जरीग्रन्थदिशा प्रमाणानुशीलम्. Int J Sanskrit Res 2022;8(1):147-155.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.