Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part F

परिभाषेन्दुशेखरेऽनुबन्धाः विमर्शः

डाॅ. सुभाषचन्द्र मीणा

अनुबन्धवर्णाः ण् च् क् श् ङेत्यादयः प्रत्ययानामवयवाः न वेति संदेहे पूर्वपक्षिमतानुवादाय नागेशेनानवयवत्वपक्षप्रतिपादनाय अनेकान्ताः अनुबन्धाः इति परिभाषा अवतारिता। अस्यां परिभाषायामनेकान्ता इति पदस्यानवयवा इत्यर्थः। अणादिप्रत्यायहारेषु ये णकारादयोऽनुबन्धवर्णाः ते प्रत्ययानामवयवा न भवन्ति । अत एव ते कदाऽपि लक्ष्येषु नैव दृश्यन्ते । नागेशोऽत्र ‘वस्तुतस्तु एकान्ता इत्येव न्याय्यम्’ इत्यादिवाक्यै ग्रन्थे सिद्धान्तपक्षं प्रादर्शयत्। अनुबन्धानामवयवत्वपक्ष एव प्रामाणिको भाष्यकारसम्मतश्च । अत एव उभयपदमनुबन्धे किमत्र न्याय्याम्? एकान्ता इत्येव न्याय्याम् इति ‘‘तस्य लोपः’’1इति सूत्रस्थं भाष्यं सङ्गच्छते । अनुबन्धानामवयवत्वे अनेकाल्शित् सर्वस्य इति सूत्रे षिद्ग्रहणमेव व्यर्थीभूयैनां परिभाषां ज्ञापयति-नानुबन्ध्कृतमनेकाल्त्वम् इति ।
अवदातमिति प्रयोगानापत्तिरित्याशङ्कायां नागेशेन परिभाषेन्दुशेखरे ‘नानुबन्धकृतमनेजन्तत्वम्’ इति परिभाषा अवतारिता । अनुबन्धकृतमनेजन्तत्वं कार्यप्रयोजकं न भवतीति तत्परिभाषार्थः । अपवादप्रत्ययोत्सर्ग निरूपितमनुबन्धप्रयुक्तमसारूप्यं नैवाश्रयणीयमिति नानुबन्धकृतमसारूप्यम् इत्यस्याः अर्थः । ददाति ‘‘दधात्येर्विभाषा’’ इति णबाधकशस्य विकल्पविधायकमस्याः ज्ञापकम्।
Pages : 349-351 | 372 Views | 83 Downloads


International Journal of Sanskrit Research
How to cite this article:
डाॅ. सुभाषचन्द्र मीणा. परिभाषेन्दुशेखरेऽनुबन्धाः विमर्शः. Int J Sanskrit Res 2021;7(5):349-351.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.