Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 4, Part E

संस्कृतसाहित्ये पाण्डुलिपिपरम्परा

ज्ञानदीप्ति बला

तत्र शास्त्रान्तर इव पुरा साहित्यशास्त्राणां मूललेख: हस्तलिखितशास्त्रेषु नाम हस्तप्रतेषु लिपिबद्ध आसीत्। अत: तेषां हस्तप्रतशास्त्राणाम् (Manuscript ) सम्बन्धे किञ्चित् विवरणमत्र समासेन प्रस्तूयते। शास्यते अनेन इति शास्त्रम्। एतच्च प्रामाणिकतथ्यानिर्णायकं हस्तलिखित शास्त्रस्य नामान्तराणि विद्यन्ते। तानि यथा – हस्तलिखितशास्त्रम्, हस्तप्रतविद्या, हस्तलेख: पाण्डुलपिशास्त्रम्, हस्तप्रतशास्त्रम् इति, अत्र हस्तलिखित – हस्तप्रतशब्दयोरर्थ: - हस्तेन लिखितं हस्तलिखितम्। हस्तेन लिखिता प्रति: - हस्तप्रति:, हस्तप्रत: वा। प्रकाशित ग्रन्थानामप्रकाशितरूपमेव हस्तलेखरूपेण सुविदितम्। प्राचीनकाले यदा यान्त्रिकसाधनेन प्रकाशन व्यवस्था प्रचार: प्रसारणं नाभूत्, तदा हस्तलेखानां प्रसार: जायतेस्म। तदानीन्तन समयेमूलभूतपाण्डुलिपीनां प्रयोजनत्वात् राजप्रासादेषु, धर्मानुष्ठानेषु, मठमन्दिरप्रभृतिषु प्रतिलिपिकारा: स्वहस्तेन लिखन्तिस्म, यत्तु भारते तथा विदेशेषु भूयान् प्रचार: चलतिस्म तत्र पाण्डुलिपिशब्देन पाण्डु नाम प्रथमलेख: तत्तु शुद्धाशुद्धमिश्रितं लेखरूपं वुध्यते। हस्तलिखितशास्त्रस्य स्वरूपसम्वन्धे कथितम् कर्त्तव्यमकर्त्तव्यं च नित्येन कृतवान वा पुंसा येनोपदिश्यते तत् शास्त्रमभिधीयते। तत्र ये ये ग्रन्थराशय: प्रकाशिता: सन्ति तेषां मूलाधारभूता: सन्ति हस्तलेखा:। सत्सु वहुषु प्रकाशितेष्वपि वहव: हस्तलेखा: अद्यतने अपि अप्रकाशिता: वर्त्तन्ते। तेषां संकलनं, सूचीकरणं, अध्ययनं, संरक्षणं, संशोधनं संपादनं च विधातव्यम्।
Pages : 294-296 | 355 Views | 128 Downloads


International Journal of Sanskrit Research
How to cite this article:
ज्ञानदीप्ति बला. संस्कृतसाहित्ये पाण्डुलिपिपरम्परा. Int J Sanskrit Res 2021;7(4):294-296.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.