Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part I

वेदोपनिषत्सु भक्तितत्त्वविमर्शः

डॉ. नन्दिघोषमहापात्रः

संसारे उत्पत्रः जीवः स्वभावत एव सुखस्य कामनां करोति । सुखं च लोके अनेकविधं भवति । तत्र पुनः भौतिकमाध्यात्मिकमिति प्रकारद्वयं प्रसिद्धं लोके । साम्प्रतिकसमाजः भौतिकसुखमनुधावति । तावता जीवनं धन्यं मनुते । परन्तु तदेव सुखं न अन्तिमः ततोऽप्युत्कृष्टं नित्यनिरतिशयं भगवत्प्रेमरूपं सुखं भवति । तच्च सुखं भक्त्या साध्यम् । अत एव शास्त्रेषु भक्तितत्त्वस्य तावदेव प्राधान्यं यावत् ज्ञानस्य दत्तम् ।
तत्र भक्तिर्नाम भगवद्विषयिणी अनन्यमनसा चिन्तनम् इति गीताशास्त्रेषु वैष्णवसम्प्रदायेषु बहुधा निरूपितम् । भगवान्-भक्तयोर्मध्ये अनन्यसम्बन्धः भक्तिः भवति । भक्तस्य भगवति अहेतुकी प्रीतिः भक्ति इति । मनोवाक्कायेन आत्मनः भगवति समर्पणं भक्तिः । निष्कामकर्म अपि भक्तिः इत्यभिधीयते । अत एव भगर्वीतायां भक्तानां प्रकारभेदसन्दर्भे ज्ञानीभक्त एव भगवतः प्रियतमः इति साक्षात् गीताचार्येण अभिव्यक्तम् । तदुक्तम् –
तेषां ज्ञानी नित्ययुक्त एक भक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ।।24
एवं च यः भक्तः निष्कामभावनया भगवन्तमहरहः सेवते सः एव ज्ञानीभक्तः । फलकामनां विना विहितार्चनः ज्ञानीभक्तः इति ।
भक्तिविषये प्रकारभेदाः भागवतादिषु नवधा भवन्तीति । वेदान्तदृष्ट्या भक्तिनिरूपणप्रसङ्गे निरूपितमिति । अतः अत्र तस्य पिष्टपेषणं न क्रियते । गीताचार्यमतानुसारेण भक्तिः परापरेति भेदेन द्विधा भवति । फलकामनया सह भगवति या प्रीतिः जीवेन प्रदर्श्यते सा अपरा इति अभिधीयते । फलकामनां विना भगवति या अहेतुकी प्रीतिः जीवस्य जायते सा परा इति उच्यते । एषा पराभक्तिरेव ज्यायसी भवति ।
Pages : 523-526 | 336 Views | 108 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. नन्दिघोषमहापात्रः. वेदोपनिषत्सु भक्तितत्त्वविमर्शः. Int J Sanskrit Res 2021;7(1):523-526.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.