Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part A

ज्योत्पत्तिविषये भास्कराचार्यस्य योगदानम्

गिरीशभट्टः बि

फलितज्यौतिषग्रन्थेषु निरूपितानां फलानाम् आदेशार्थमेव ग्रहगणितोक्‍तरीत्या ग्रहलग्नादीनां साधनं क्रियते । स्फुटग्रहलग्नादीनाम् आधारेण कृतः फलादेशः एव परिस्फुटः भवति । अस्फुटान् ग्रहलग्नादीन् स्वीकृत्य कृताः फलादेशाः अस्फुटा एव भवन्ति । अतः ग्रहलग्नादीनां स्फुटीकरणम् अनिवार्यं भवति । ग्रहलग्नादीनां स्फुटीकरणन्तु ज्यागणितं विना भवितुं नार्हति । श्रीपति-भास्कराचार्य-कमलाकरभट्टादिभिः गणकैः ज्योत्पत्तेः आवश्यकता सम्यग्रूपेण प्रतिपादिता अस्ति । अत एव प्रायः सर्वेषु ग्रहगणितप्रतिपादकग्रन्थेषु ज्योत्पत्तिः उपनिबद्धा अस्ति । समग्रग्रहगणितमेव ज्योत्पत्तिमाश्रितं भवति । अतः सिद्धान्तज्यौतिषस्य प्रमुखः आधारभूतः सिद्धान्तः भवति ज्योत्पत्तिः । “The Science of calculation for the construction of Sine” इति आङ्ग्लभाषायां ज्योत्पत्तिशब्दस्य व्याख्या । ज्योत्पत्तिविषये “ज्योतिर्गगनभास्करः” इति विख्यातस्य भास्कराचार्यस्य महद्योगदानं विद्यते । अस्मिन् पत्‍त्रे भास्कराचार्येण सिद्धान्तशिरोमणिग्रन्थे प्रतिपादिताः ज्योत्पत्तिविषयकाः प्रमुखसिद्धान्ताः सङ्ग्रहरूपेण विविच्यन्ते ।
Pages : 31-37 | 446 Views | 124 Downloads


International Journal of Sanskrit Research
How to cite this article:
गिरीशभट्टः बि. ज्योत्पत्तिविषये भास्कराचार्यस्य योगदानम्. Int J Sanskrit Res 2023;9(1):31-37.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.