संस्कृते प्रधाननाटककाराणामन्यतमस्य भवभूतेवस्तिविकं नामधेयं श्रीकण्ठ आसीत्। विदर्भाभिजनो विश्रुतश्रीत्रियकुलोत्पन्नौऽसौ स्वयं नानाशास्त्रपारदृश्वा बभूव। तस्याद्यकृतावालोचकैः कटु आलोचितायामपि स्वकाव्यकलाप्रकर्षे प्रतियन् भविष्यति काले तद्गुणादरं सम्भावयन् स अभग्नोत्साहो नाटकान्तर-रचनाप्रवृत्तो बभूव। वाग्देवी दासी भूत्वा यथा ब्रह्माणं सेवते तथैव तमिति खलु स्याभिमान आसीत्। पुनश्च तन्मते निर्दोषायामपि कविकृतौ जनस्तथैव दोषसम्भावनां कुरुते यथा सत्यां स्त्रियाम्। अथ-
‘ये नाम केचिदिह नः प्रथयन्त्यवज्ञां,
जानन्ति ते किमपि तान् प्रति नैष यत्नः।
उत्पत्स्यते तु मम कोऽपि समानधर्मा,
कालो ह्ययं निरवधिर्विपुला च पृथ्वी॥’
इत्युक्त्वा तेन स्वसमीक्षकाः सम्यग् अधिक्षिप्ताः।