Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 3, Part A

न्यायवैशेषिकशास्त्रे कर्मस्वरूपम्

शुभेन्दुभट्टाचार्यः

न्यायवैशेषिकशास्त्रं हि भारतीयास्तिकदर्शनप्रस्थानानां स्तम्भस्वरूपम्। सिद्धान्तानां साम्यबाहुल्य्यात् न्यायवैशेषिकयोः समानतन्त्रत्वं प्रसिद्धम्। वैशेषिकस्वीकृतेषु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावरूपसप्तपदार्थेषु तृतीयपदार्थः कर्म अन्यतमतां भजते। यद्यपि प्राचीनन्याये प्रमाणप्रमेयादिषोडशपदार्थाः प्रतिपादिताः, तथापि नव्यन्याये वैशेषिकाणामिव द्रव्यादिसप्तपदार्थाः स्वीक्रियन्ते। तथा च भाषितं भाष्ये - " अस्त्यन्यदपि द्रव्यगुणकर्म्मसामान्यविशेषसमवायाः प्रमेयम् "। तस्मात् कर्मणः पदार्थत्वं नैयायिकैरपि अङ्गीकृतमिति ज्ञायते। कर्मपदार्थस्य अनङ्गीकारे तु वस्तुषु क्रियोत्पादनादिविषयाणां काऽपि व्याख्या न स्यात्। कर्मणः सहकारित्वं व्यतिरिच्य तेषां सिद्धान्तानां तथा विचाराणां विनाशः निश्चितः एव। अतः कर्मणः एवं माहात्म्यं परिलक्ष्य कर्मणोऽस्य लक्षणं प्रमाणमुत्पत्तिस्तथा स्वरूपं विभागश्चात्र निबन्धे विषयत्वेन आचिताः। अनेन च न्यायवैशेषिककर्मविषयकं सुस्पष्टं ज्ञानं भविष्यतीति।
Pages : 12-18 | 164 Views | 81 Downloads


International Journal of Sanskrit Research
How to cite this article:
शुभेन्दुभट्टाचार्यः. न्यायवैशेषिकशास्त्रे कर्मस्वरूपम्. Int J Sanskrit Res 2024;10(3):12-18. DOI: 10.22271/23947519.2024.v10.i3a.2362

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.