Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 4, Part A

स्त्रीबलात्कारेणाभिगमाय भयोपायः औषधिर्भवितुं शक्यते वा ?

Shobha N

“कामातुराणां न भयं न लज्जा” इति पुराणोक्तरीत्या अत्यन्त कामलम्पटनां कृते समाजस्य भयमपि नास्ति लज्जाsपि नास्ति । इदानीन्तन कालेषु अस्य वाक्यस्य पुष्टिरागतमितिरीत्या स्त्रीषु कामदृष्टिः वर्धित्वा बालिकानाम् उपरि बलात्कारः, महिलानां उपरि हिंसा, समूहबलात्कारादि वार्ताः प्रतिदिवसं शृण्मः । पितुः पुत्र्याः उपरि बलात्कारं कृतवान्, अग्रजः अनुजां बलात्कारितवान्, वृद्धेण शिशोः उपरि बलात्कारः एतादृशाः हिंसाचाराः सम्भवन्तः सन्ति । पवित्र बान्धवतायाः स्थानं विस्मृत्य शिशुः इत्यपि न दृष्ट्वा बलात्कारं कुर्वन्तः सन्ति । एतत् समाजस्य दुष्टमनस्थितिं दर्शयति । एतादृशानां बलात्कारिणां कृते असामान्यः दण्डः भवेत्। अग्रिमदिवसेषु बलात्कारः इति पदं श्रुत्वा एव तैः भयमनुभूतव्यं, एवं रीत्या दण्डः भवेत् । अत एव “स्त्रीबलात्कारेणाभिगमाय भयोपायः औषधिर्भवितुं शक्यते वा ?” इति शीर्षिकम् अस्ति ।
वैदिक युगे नारीणां स्थितिः महत्तमा परिलक्ष्यते । वैदिक युगे स्त्री कल्याणमयी, गुणवती, पतिव्रता, सहधर्मिणी, सुगृहिणीत्यादि रूपेण वर्णिता वर्तते । समाजस्य सर्वासु कार्यासु सा आद्या भूत्वा विराजते । अनादिकालातः नारीणां पूजनीय स्थानमस्ति । इयम् अस्माकं संस्कृतिः । एतादृश्याः मातृसमायाः स्त्रियः उपरि बलात्कारादि हिंसा असहनीया । अस्य बलात्कारस्य कृते कठिणदण्डः देयः । अस्य दण्डस्य विषये कौटिल्यस्य अर्थशास्त्रे उक्तमस्ति । कौटिलीय अर्थशास्त्रस्य कण्टकनिवारणम् इति चतुर्थे अधिकरणे स्त्रीप्रकर्म इति अध्याये बलात्कारस्य कृते कः दण्डः दातव्यः इति उक्तमस्ति । एतदाधारीकृत्य अयं लेखः मया लिखितः । वैदिकयुगे स्त्रीणां स्थितिः कथं आसीत्?, अद्यतन दिवसेषु स्त्रीणां स्थितिः कीदृशी वर्तते?, बलात्कारः इत्युक्ते किम्? (पूर्वोक्तरीत्या, IPC section उक्तरीत्या), इदानीन्तनकाले बलात्कारः- तस्य परिणामः, बलात्कारेण नार्याः मनस्थितिः कीदृशी भवति?, तस्याः मातापित्रोः स्थितिः कथं परिवर्तते ? बलात्कृतनारीं समाजः कथं पश्यति? एतस्य कृते कौटिल्योक्त दण्डोपायाः, अन्येषु देशेषु दीयमानाः दण्डोपायाः च अस्मिन् लेखे मया प्रस्तूयते ।
Pages : 04-09 | 41 Views | 25 Downloads


International Journal of Sanskrit Research
How to cite this article:
Shobha N. स्त्रीबलात्कारेणाभिगमाय भयोपायः औषधिर्भवितुं शक्यते वा ?. Int J Sanskrit Res 2024;10(4):04-09.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.