Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 5, Part C

साहित्यदृष्ट्या शिक्षकचरितसमीक्षा

Gouranga Show

शिक्षकशब्देन यः शिक्षां ददाति स एव बोध्यः। इह जगति सन्ति बहवः शिक्षकाः, परं ते सर्व आदर्शशिक्षका इति वक्तुं न शक्यते। आदर्शशिक्षको हि स एव उच्यते यः शिक्षादानार्थम् आत्मानम् उत्सृजति। शिक्षा हि तस्य ध्यानम्। शिक्षाविस्तारं विना नास्ति तस्य कोऽपि चिन्ताविषयः। यमवलम्ब्य वयमस्माकं जीवनगतेः परिचालनं कुर्मः, स इव भवितुं वयं सर्वदा मनसि चेष्टां कुर्मः, स एव अस्माकम् आदर्शः। प्रतिमूर्तिः यथा मूर्तेः अनुरूपा भवति तथैव वयमादर्शस्य अनुरूपा भवामः। प्रतिमूर्त्या सह मूर्तेः यः सम्बन्धः, अस्माकं जीवने आदर्शेन सह स एव सम्बन्धः। वयं यत् किमपि कुर्मः तत्तु अस्माकमादर्शस्य अनुसरणस्य फलम्। एतत् कार्यं वयं सर्वे एव कुर्मः। आदर्शस्य अनुसरणं न करोति एवं मनुष्यो दुर्लभः। छात्रा आदर्शशिक्षकस्य चरित्रमवलम्ब्य स्वजीवननिर्माणं कुर्वन्ति। अतः छात्राणां जीवननिर्माणे आदर्शशिक्षकस्य अस्ति महती भूमिका। आदर्शशिक्षकस्य चरितस्य बहूनि वैशिष्ट्यानिसाहित्ये बहुत्रैव प्रदर्शितानि।
Pages : 132-136 | 793 Views | 117 Downloads


International Journal of Sanskrit Research
How to cite this article:
Gouranga Show. साहित्यदृष्ट्या शिक्षकचरितसमीक्षा. Int J Sanskrit Res 2019;5(5):132-136.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.